________________
( १६४ )
मौखर्य लाघवकरं मौनमुन्नतिकारकम् । मुखरं नूपुरं पादे कंठे हारो विराजते यो वर्तते शुचित्वेन स वैश्वानर उच्यते । यो वर्तते शुचित्वेन स वै श्रा नर उच्यते राजंस्त्वत्कीर्तिचन्द्रेण तिथयः पौर्णिमाः कृताः । मद्गेहान वहिर्याति तिथिरेकादशी भयात् यदि वा याति गोविंदो मथुरातः पुनः सखि । राधाया नयनद्वंदे राधानामविपर्ययः
निद्राप्रियो यः खलु कुंभकर्णो हतः समीके स रघूत्तमेन । वैधव्य मापद्यत तस्य कान्ता
॥ ११०९ ॥
॥ १११० ॥
।। ११११ ।।
-
।। १११२ ।।
॥ १११३ ॥
श्रोतुं समायाति कथां पुराणम् न संध्यां संधत्ते नियमितनिमाजान्न कुरुते नवा मौजीबन्धं कलयति न वा सौनतविधिम् । न रोजा जानीते व्रतमपि हरेर्नैव कुरुते
न काशी मक्का वा शिव शिव न हिंदुर्न यवनः।। १११४ खद्योतो द्योतते तावद्यावन्नोदयते शशी । उदिते तु सहस्रांशौ न खद्योतो न चंद्रमाः ।। १११५ ।। सहसा विदधीत न क्रिया-मविवेकः परमापदां पदम् । वृणुते हि विमृश्यकारिणं, गुणलुब्धाः स्वयमेव संपदः ।। १११६ सुखं हि दुःखान्यनुभूय शोभते, घनान्धकारेष्वि दीपदर्शनम् । सुखाच्च यो याति नरो दरिद्रतां धृतः शरीरेण मृतः स जीवति