________________
( १६३) तद्वै धनुस्त इषवः स रथो हयास्ते
सोऽहं रथी नृपतयो यत पानमन्ति । सर्व क्षणेन तदभूदसदीशरिक्तम्
भस्मन् हुतं कुहकराद्धमिवोप्तमृष्याम् ॥ ११०१ ॥ स्त्रीणां स्पर्शात् प्रियंगुर्विकसति बकुल सीधुगण्डूषसेकात् पादाघातादशोकस्तिलककुररको वीक्षणालिंगनाम्याम् । मन्दारो नर्मवाक्यात् पटुमृदुहसनाचम्पको वक्त्रवातात् चूतोगीतानमेरुर्विकसति च पुरो नर्तनात् कर्णिकारः।।११०२ तमाखुपत्रं राजेन्द्र भज भाज्ञानदायकम् ।। तमाखुपत्रं राजेन्द्र भज माज्ञानदायकम् ॥११०३ ॥ रामो राजमणिः सदा विजयते रामं रमेशं भजे रामेणामिहता निशाचरचमू रामाय तस्मै नमः। रामानास्ति परायणं परतरं रामस्य दासोऽस्म्यहम् रामे चित्तलयः सदा भवतु मे भो राम मामुद्धर ॥ ११०४ ॥ सीताचिन्ताकुले रामे निद्रा निरगमद् रुषा । कथमेकाकिनं जह्याम् , इत्येवं न जहौ निशा ॥११०५ ॥ का को के कं को कान्, हसति हसतो हसन्ति तन्वंग्याः । दृष्ट्वा पल्लवमधरो, पाणी पोच कोरकान् दन्ताः॥११०६।। अकर्णमकरोच्छेषं विधिब्रह्मांडभंगधीः।। श्रुत्वा रामकथां रम्यां शिरः कस्य न कम्पते ॥ ११०७ ॥ सरसो विपरीतश्चेत् सरसत्वं न सुंचति । साक्षरा विपरीताश्चेद् राचसा एव केवलम् ॥११०८ ।।