SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ ( १६२) मार्गे मार्ग निर्मलं ब्रह्मवृन्दं ___ वृन्दे वृन्दे तत्त्वचिन्तानुवादः। वादे वादे जायते तत्ववोधो बोधे बोधे भासते चन्द्रचूडः ॥१०९३ ।। चिकीर्षिते कर्मणि चक्रपाणे नापेक्षते तत्र सहायसंपत् । पाञ्चालजायाः पटसंविधाने मध्येसमं यत्र तुरी न मा ॥१०६४ ॥ पुष्पेषु चम्पा नगरीषु लङ्का | नदीषु गङ्गा च नृपेषु रामः। योषित्सु रंभा पुरुषेषु विष्णुः काव्येषु माघः कविकालिदासः ॥ १०९५ ॥ गतास्ते दिवसा राजन् देवाः सेवानुवर्तिनः । दशानन दशां पश्य तरन्ति दृषदोऽम्भसि ॥१०९६।। अग्रतश्चतुरो वेदाः पृष्ठतः सशरं धनुः । इदं ब्राह्ममिदं क्षात्रं शापादपि शरादपि ॥१०९७॥ अर्थस्य पुरुषो दासो दासस्त्वर्थो न कस्यचित् । इति सत्यं महाराज बद्धोऽस्म्यर्थेन कौरवैः ॥१०९८॥ न तेन स्थविरो भवति येनास्य पलितं शिरः । बालोऽपि यः प्रजानाति तं देवाः स्थविरं विदुः॥११९६।। भारं स वहते तस्य ग्रन्थस्यार्थ न वेत्ति यः। यस्तु ग्रन्थार्थतत्त्वज्ञो नास्य ग्रन्थागमो वृथा ॥ ११०० ॥
SR No.002455
Book TitleSubhashit Shloak Tatha Stotradi Sangraha
Original Sutra AuthorN/A
AuthorBhavvijay
PublisherBhupatrai Jadavji Shah
Publication Year1935
Total Pages400
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy