SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ ( १६१) प्रानन्दतांडवपुरे द्रविडस्य गेहे चित्रं वसिष्ठवनितासममाज्यपात्रम् । विद्युल्लतेव परिनृत्यति तत्र दर्वी धारां विलोकयति योगबलेन सिद्धः ॥ १०८५ ॥ नाहं जानामि केयूरे नाहं जामामि कुण्डले । नपुरे त्वभिजानामि नित्यं पादाभिवन्दनात् ॥ १०८६ ।। अस्य मूर्खस्य यागस्य दक्षिणा महिषशितम् । त्वयाधं च मयाधं च विघ्नं मा कुरु पण्डित ! ॥१०८७ ॥ यदि नाम दैवगत्या, जगदसरोजं कदाचिदपि जातम् । प्रवकरनिकरं विकिरति, तत् किं कुकवाकुरिव हंसः ॥१०८८॥ अखिलेषु विहङ्गेषु हन्त स्वच्छन्दचारिषु । शुक पञ्जरबन्धस्ते मधुराणां गिरां फलम्। ॥११८९ ।। स्वस्त्यस्तु विद्रुमवनाय नमो मणिभ्यः । कल्याणिनी भवतु मौक्तिकशुक्तिमाला । प्राप्तं मया सकलमेव फलं पयोधे। यद्दारुणैर्जलचरैन विदारितोऽस्मि कुमुदवनमपति श्रीमदम्भोजखण्डं त्यजति मुदमुलूका प्रीतिमांश्चक्रवाकः । उदयमहिमरश्मिर्याति शीतांशुरस्तं हतविधिलसिताना ही विचित्रो विपाकः ॥१०६१॥ मर्कटस्य सुरापानं तस्य वृश्चिकदंशनम् ! तन्मध्ये भूतसंचारो यद्वा तद्वा भविष्यति ॥१०६२।। ໑໑
SR No.002455
Book TitleSubhashit Shloak Tatha Stotradi Sangraha
Original Sutra AuthorN/A
AuthorBhavvijay
PublisherBhupatrai Jadavji Shah
Publication Year1935
Total Pages400
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy