________________
(१५८) इति श्रियाऽशिषि सहोदरेभ्यो, ___न वेनि कस्माद् गुणवद्विरोधः ॥१०६३॥ मान्धाता स महीपतिः कृतयुगालंकारभृतो गतः । सेतुर्येन महोदधौ विरचितः कासौ दशास्यांतकः ? । अन्ये चापि युधिष्ठिरप्रभृतयो याता.दिवं भूपते ! नैकेनापि समं गता वसुमती नूनं त्वया यास्यति ॥१०६४॥
एकेन तिष्ठताऽधस्तादन्येनोपरि तिष्ठता। दात्याचकयोर्भेदः कराभ्यामेव सूचितः ॥१०६५॥ अयश्चणकचर्वणं फणिफणामणेः कर्षणम् ,
करेण करितोलनं जलनिधेः पदा लंघनम् । प्रसुप्तहरिबोधनं निशितखड्गसंस्पर्शनम् । __ कदाचिदपि संभवेन्न कृपणस्य वित्तार्जनम् ॥१०६६॥ ग्रासोद्गलितसिक्थस्य का हानिः करिणो भवेत् । पिपीलिका तु तेनैव सकुटुंबाऽपि जीवति ॥१०६७ ॥ अलंकरोति हि जरा राजामात्यभिषग्यतीन् । विडंबयति पण्यत्रीमल्लगायकसेवकान् ॥१०६८ ॥ दूरस्थाः पर्वता रम्या वेश्या च मुखमंडने । युद्धस्य वार्ता रम्या च त्रीणि रम्याणि दूरतः ॥ १०६९ ॥ अमितगुणोऽपि पदार्थो दोषेणैकेन निन्दितो भवति । । सकलरसायनमहितो गन्धेनोग्रेण लशुन इव ॥ १०७० ॥ कवयः परितुष्यन्ति नेतरे कविसूक्तिभिः । न बकूपारवत् कूपा वर्धन्ते विधुकान्तिभिः ॥१०७१ ॥