________________
( १५९ )
।। १०७२ ॥
तवं किमपि काव्यानां जानाति विरलो भुवि । मार्मिकः को मरन्दानामन्तरेण मधुव्रतम् शिला बाला जाता चरणरजसा यत्कुलशिशोः स एवायं सूर्यः सपदि निजपादैर्गिरिशिलाम् । स्पृशन् भूयो भूयो न खलु कुरुते कामपि वधूम् कुले कश्चिद् धन्यः प्रभवति नरः श्लाघ्यमहिमा || १०७३ || तृणादपि लघुस्तूलस्तूलादपि च याचकः । वायुना किं न नीतोऽसौ मामेवं प्रार्थयेदिति ॥ १०७४ ॥ पङ्गो वन्द्यस्त्वमसि न गृहं यासि योऽर्थी परेषां धन्योऽन्ध त्वं धनमदवतां नेचसे यन्मुखानि । श्लाघ्यो मूक त्वमपि कृपणं स्तौषि नार्थाशया यः स्तोतव्यस्त्वं बधिर न गिरं यः खलानां शृणोषि ।। १०७५ ॥ वरमेको गुणी पुत्रो न च मूर्खशतान्यपि । एकश्चन्द्रस्तमो हन्ति न च तारागणोऽपि च ।। १०७६ ।। शय्या वस्त्रं चन्दनं चारु हास्यं वीणा वाणी सुन्दरी या च नारी । न भ्राजन्ते क्षुत्पिपासातुराणां सर्वारम्भास्तण्डुलप्रस्थमूला: श्रादौ रामतपोवनादिगमनं मायामृगोन्माथनं, वैदेहीहरणं जटायुमरणं सुग्रीवसंभाषणम् । वालिव्याहननं समुद्रतरणं लंकापुरीदाहनम् पश्चाद् रावण कुंभकर्णहननं एतद्धि रामायणम् ॥ १०७८॥
॥ १०७७ ॥