________________
( १५६ )
॥ १०५१ ॥
- हस्तमुत्क्षिप्य यातोऽसि बलात् कृष्ण किमद्भुतम् १. हृदयाद् यदि निर्यासि पौरुषं गणयामि ते ।। १०५० ॥ भकारो कुंभकर्णेऽस्ति भकारोऽस्ति विभीषणे । तयोर्ज्येष्ठे कुलश्रेष्ठे भकारः किं न वर्तते क्वचिद् वीणावाद्यं क्वचिदपि च हाहेति रुदितम् क्वचिद् विद्वद्गोष्ठी कचिद्भि सुरामत्त कलहः । क्वचिद् रम्या रामाः क्वचिदपि गलत्कुष्ठवपुषो न जाने संसारः किममृतमयः किं विषमयः १ ॥ १०५२ ॥ काक श्राह्वयते काकान् याचको न तु याचकान् । काकयाचकयोर्मध्ये वरं काको न याचकः ।। १०५३ ।। हस्ती स्थूलतनुः स चाङ्कुशवशः किं हस्तिमात्रोऽङ्कशो वज्रेणाभिहताः पतन्ति गिरयः किं शैलमात्रः पविः । दीपे प्रज्वलिते विनश्यति तमः किं दीपमात्रं तमः तेजो यस्य विराजते स बलवान् स्थूलेषु कः प्रत्ययः ।। १०५४।। कचिद् भूमौ शय्या क्वचिदपि च पर्यङ्कशयनम् कचिच्छाखाहारी क्वचिदपि च शाल्योदनरुचिः । क्वचित कन्थाधारी क्वचिदपि च दिव्याम्बरधरो मनस्वी कार्यार्थी न गणयति दुःखं न च सुखम् ॥ १०५५ ॥ अद्यापि दुर्निवारं स्तुतिकन्या वहति कौमारम् । सद्द्भ्यो न रोचते साऽसंतोऽप्यस्यै न रोचन्ते ॥ १०५६॥ वाङ्माधुर्यान्नान्यदस्ति प्रियत्वं
- वाक्पारुष्याच्चोपकारोऽपि नष्टः ।