SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ ( १५५) दुर्जेनषितमनसां पुंसां सुजनेऽपि नास्ति विश्वासः। पाणौ पायसदग्धे तक्रं फूत्कृत्य बालकः पिबति ॥१०४३॥ अतिपरिचयादवज्ञा संततगमनादनादरो भवति । मलये भिल्लपुरन्ध्री चन्दनतरुकाष्ठमिन्धनं कुरुते ॥ १०४४॥ असारे खलु संसारे सारं श्वशुरमंदिरम् । हरो हिमालये शेते हरिः शेते महोदधौ ॥१०४५॥ अगस्तितुल्याश्च घृताब्धिशोषणे दंभोलितुल्या वटकाद्रिभेदने । शाकावलीकाननवाहिरूपाः त एव भट्टा इतरे भटाश्च ॥१०४६॥ भो भाद्रपक्ष सकलद्विजकल्पवृक्ष, . क्वास्मान् विहाय गतवानसि देहि वाचम् । डिण्डीरपिण्डपरिपाण्डुरवर्णभाजां, ' लामः कथं त्वयि गते घृतपायसानाम् ॥१०४७॥ इह तुरगशतैः प्रयान्तु मूर्खा:, ___ धनरहिता विबुधाः प्रयान्तु पद्भ्याम् । गिरिशिखरगतापि काकपंक्तिः पुलिनगर्न समत्वमेति हंसः ॥१०४८ ॥ पीतोऽगस्त्येन तातश्चरणतलहतो वल्लभोऽन्येन रोषाद्, आबाल्याद् विप्रवः स्ववदनविवरे धारिता वैरिणी मे । गेहं मे छेदयन्ति प्रतिदिवसमुमाकान्तपूजानिमित्तं, तस्मात् खिन्ना सदाहं द्विजकुलसदनं नाथ नित्यं त्यजामि ॥
SR No.002455
Book TitleSubhashit Shloak Tatha Stotradi Sangraha
Original Sutra AuthorN/A
AuthorBhavvijay
PublisherBhupatrai Jadavji Shah
Publication Year1935
Total Pages400
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy