SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ (१५४) यावजीवं सुखं जीवेद् ऋणं कृत्वा घृतं पिबेत् । भस्मीभूतस्य देहस्य पुनरागमनं कुतः ? . ॥१०३३ ।। सत्यं ब्रूयात् प्रियं ब्रूयान ब्रूयात् सत्यमप्रियम् । प्रियं च नानृतं ब्रूयाद् एष धर्मः सनातनः ॥१०३४ ॥ मला तिन्दुकस्येव मुहर्तमपि हि जल। मा तुषाग्निरिवानर्चिधूमायस्व जिजीविषुः ॥१०३५ ॥ निर्वनो बध्यते व्याघ्रो निर्व्याघ्रं छिद्यते वनम् । . तस्माद् व्याघ्रो वनं रक्षेद् वनं व्याघ्रं च पालयेत् ।। १०३६॥ प्रथमे नार्जिता विद्या द्वितीये नार्जितं धनम् । तृतीये न तपस्तप्तं चतुर्थे किं करिष्यसि ? ॥१०३७ ।। कन्या वरयते रूपं माता वित्तं पिता श्रुतम् ।। बान्धवाः कुलमिच्छन्ति मिष्टान्नमितरे जनाः ॥ १०३८ ॥ कमला कमले शेते हरिः शेते महोदधौ । हरो हिमालये शेते मन्ये मत्कुणशङ्कया ॥१०३६ ।। अस्माकं बदरीचक्रं युष्माकं बदरीतरुः । बादरायणसंबन्धात् यूयं यूयं वयं वयम् ॥१०४० ॥ न स्थातव्यं न गन्तव्यं क्षणमप्यधमैः सह। पयोऽपि शौण्डिनीहस्ते मदिरां मन्यते जनः ॥ १०४१ ॥ इतरपापफलानि यथेच्छया, वितर तानि सहे चतुरानन । अरसिकेषु कवित्वनिवेदनं . शिरसि मा लिख मा लिख मा लिख ॥१०४२॥
SR No.002455
Book TitleSubhashit Shloak Tatha Stotradi Sangraha
Original Sutra AuthorN/A
AuthorBhavvijay
PublisherBhupatrai Jadavji Shah
Publication Year1935
Total Pages400
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy