SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ हरेः पदाहतिः श्लाघ्या न श्लाघ्यं खररोहणम् । स्पर्धाऽपि विदुषा युक्ता न युक्ता मूर्खमित्रता ॥ १०२४ ॥ दारेषु किंचित् स्वजनेषु किंचिद् ___ गोप्यं वयस्येषु सुतेषु किंचित् । युक्तं न वा युक्तमिदं विचिंत्य वदेद् विपश्चिन्महतोऽनुरोधात् ॥१०२५ ॥ पठतो नास्ति मूर्खत्वं जपतो नास्ति पातकम् । मौनिनः कलहो नास्ति न भयं चास्ति जाग्रतः ॥१०२६॥ ययोरेव समं वित्तं ययोरेव समं कुलम् । तयोमैत्री विवाहश्च न तु पुष्टविपुष्टयोः ॥१०२७ ॥ शनैः पन्थाः शनैः कन्थाः शनैः पर्वतमस्तके। शनैर्विद्या शनैर्वित्तं पञ्चैतानि शनैः शनैः ॥१०२८ n एकस्तपो द्विरध्यायी त्रिभिर्गीतं चतुः पथम् । सप्त पश्च कृषीणां च संग्रामो बहुभिर्जनैः ॥१०२६ ।। श्रुतिविभिन्ना स्मृतयश्च भिन्ना नैको मुनिर्यस्य वचोप्रमाणम् । धर्मस्य तवं निहितं गुहायां . - महाजनो येन गतः स पन्थाः ॥१०३० ॥ अन्यैः साकं विरोधेन वयं पश्चोत्तरं शतम् । परस्परविरोधेन वयं पञ्च च ते शतम् ॥१०३१ ॥ अरावप्युचितं कार्यमातिथ्यं गृहमागते । छत्तुः पार्श्वगतां छायां नोपसंहरते द्रुमः ॥१०३२॥
SR No.002455
Book TitleSubhashit Shloak Tatha Stotradi Sangraha
Original Sutra AuthorN/A
AuthorBhavvijay
PublisherBhupatrai Jadavji Shah
Publication Year1935
Total Pages400
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy