________________
(१५२) पणशः कर्णशश्चैव विद्यामर्थं च चिंतयेत् । पणे नष्टे कुतो विद्या कणे नष्टे कुतो धनम् ॥१०१३॥ गुरोर्यत्र परीवादो निन्दा वापि प्रवर्तते । कौँ तत्र पिधातव्यो गन्तव्यं वा ततोऽन्यतः ॥ १०१४ ॥ तैलाद्रक्षेजलाद्रक्षेद्रक्षेच्छिथिलधनात् । मूर्खहस्ते न दातव्यमेवं वदति पुस्तकम् ॥१०१५ ॥ घटं भिन्द्यात् पटं छिन्द्यात् कुर्याद् वा रासमध्वनिम् । येन केन प्रकारेण प्रसिद्धः पुरुषो भवेत् ॥१०१६ ॥ शतं विहाय भोक्तव्यं सहस्रं स्नानमाचरेत् । लक्षं विहाय दातव्यं कोटिं त्यक्त्वा हरिं भजेत् ॥ १०१७ ॥ जिह्वे ! प्रमाणं जानीहि भोजने भाषणेऽपि च । अतिभुक्तिरतीवोक्तिः सद्यः प्राणापहारिणी ॥ १०१८ ॥ अनुकूले विधौ देयं यतः पूरयिता प्रभुः ।। प्रतिकूले विधौ देयं यतः सर्व हरिष्यति ॥१०१९ ।। स्थानभ्रष्टा न शोभन्ते दन्ताः केशा नखा नराः । इति विज्ञाय मतिमान् स्वस्थानं न परित्यजेत् ॥ १०२० ॥ परिचरितव्याः संतो यद्यपि कथयंति नो सदुपदेशम् । यास्तेषां स्वैरकथास्ता एव भवन्ति शास्त्राणि ॥१०२१ ॥ युद्धं च प्रातरुत्थानं भोजनं सह बंधुभिः । स्त्रियमापद्गतां रक्षेत् चतुः शिक्षेत कुक्कुटात् ॥ १०२२ ॥ अव्याकरणमधीतं भिन्नद्रोण्या तरंगिणीतरणम् । भेषजमपथ्यसहितं त्रयमिदमकृतं वरं न कृतम् ॥१०२३ ॥