________________
(१५०) सद्यः फलति गांधर्व, मासमेकं पुराणकम् । वेदाः फलंति कालेषु, ज्योतिवैद्यं निरंतरम् ॥ ९९४ ॥ सहते शरशतघातानाजानेयः कशा नैव । सहते विपत्सहस्रं मानी नैवापमानलेशमपि ॥६६५ ॥ जानामि नागेन्द्र तव प्रभावं
कण्ठे स्थितो गर्जसि शंकरस्य । ' स्थानं प्रधानं न बलं प्रधानं
स्थानं स्थितः कापुरुषोऽपि शूरः ॥९९६ ।। सत्सङ्गाद् भवति हि साधुता खलानां,
पंडितसाधूनां न हि खलसंगमात् खलत्वम् । श्रामोदं कुसुमभवं मृदेव धत्ते
मृद्गन्धं न हि कुसुमानि धारयन्ति ॥९९७ ॥ . अजायुद्धमृषिश्राद्धं प्रभाते मेघडम्बरम् । दम्पत्योः कलहश्चैव परिणामे न किंचन ॥885 उत्तमा आत्मना ख्याता पितुः ख्याताश्च मध्यमाः । अधमा मातुलात् ख्याताः श्वशुराचाधमाधमाः ।। ६६६ ।। हस्तादपि न दातव्यं गृहादपि न दीयते । परोपकरणार्थाय वचने किं दरिद्रता ? ॥१००० ॥ निजदोषावृतमनसामतिसुन्दरमेव भाति विपरीतम् । पश्यति पित्तोपहतः शशिशुभ्रं शङ्खमपि पीतम् ॥१००१॥ सुलभाः पुरुषा राजन् , सततं प्रियवादिनः। अप्रियस्य च पथ्यस्य, वक्ता श्रोता च दुर्लभः ॥१००२॥