________________
(१४८) कुटिला लक्ष्मीर्यत्र प्रभवति न सरस्वती वसति तत्र । प्रायः श्वश्रूस्नुषयोर्न दृश्यते सौहृदं लोके ॥७३॥ पिंडे पिंडे मतिर्मिमा कुंडे कुंडे नवं पयः। जातौ जातौ नवाचारा नवा वाणी मुखे मुखे ॥ ९७४ ॥ यो न संचरते देशान् यो न सेवेत पंडितान् । तस्य संकुचिता बुद्धिघृतबिन्दुरिवांभसि ॥९७५ ॥ यस्तु संचरते देशान् यस्तु सेवेत पंडितान् । . तस्य विस्तारिता बुद्धिस्तैलबिन्दुरिवां मसि ॥६७६ ।। यः पठति लिखति पश्यति परिपृच्छति पंडितानुपासयति । तस्थ दिवाकरकिरणैर्नलिनीदलमिव विकास्यते बुद्धिः।९७७ एकेन राजहंसेन या शोभा सरसो भवेत् । न सा बकसहस्रेण परितस्तीरवासिना ॥६७८ ।। यथा देशस्तथा भाषा यथा राजा तथा प्रजा।। यथा भूमिस्तथा तोयं यथा बीजं तथांकुरः ॥९७६ ॥ स्वगृहे पूज्यते मूर्खः स्वग्रामे पूज्यते प्रभुः । स्वदेशे पूज्यते राजा विद्वान् सर्वत्र पूज्यते ॥९८०॥ यत्र विद्वजनो नास्ति श्लाघ्यस्तत्रान्पधीरपि । निरस्तपादपे देशे एरण्डोऽपि द्रुमायते ॥९८१ ॥ नक्रः स्वस्थानमासाद्य गजेन्द्रमाप कर्षति । स एव प्रच्युतः स्थानाच्छुनापि परिभूयते ॥९८२॥ अश्वः शस्त्रं शास्त्रं वीणा वाणी नरश्च नारी च । पुरुषविशेष प्राप्ता भवन्दि योरया अयोग्याच ॥ ९८३ ॥