________________
(१४७ ) सर्वान् पुच्छवतो हयानिति वदंत्यत्राधिकारे स्थिताः ।
राजा तैरुपदिष्टमेव मनुते सत्यं तटस्थाः परे ॥९६५।। त्वयि वर्षति पर्जन्ये सर्वे पल्लविता द्रुमाः । अस्माकमर्कवृक्षाणां जीणे पत्रेऽपि संशयः ॥९६६॥ गिरिगड्वरेषु गुरुगर्वगुंफितो।।
गजराजपोत न कदापि संचरेः । यदि बुध्यते हरिशिशुः स्तनंधयो भविता करेणुपरिशेषिता मही
॥९६७॥ गात्रं कण्टकसङ्कटं प्रविरलच्छाया न चायासहृत्
निर्गन्धः कुसुमोत्करस्तव फलं न तुद्विनाशक्षमम् । बब्बूलद्रुममूलमति न जनस्तत् तावदास्तामहो . ह्यन्येषामपि शाखिनां फलवतो गुप्त्यै वृतिजायसे ॥६६८॥ साधारणतरुबुद्ध्या न मया रचितस्तवालवालोऽपि । लज्जयसि मामिदानी चंपक भवनाधिवासितैः कुसुमैः ॥९६६॥ उत्कन्धरो विततनिर्मलचारुपक्षो
हंसोऽयमत्र नभसीति जनैः प्रतीतः । गृह्णाति पन्वलजलाच्छफरी यदासौ . ज्ञातस्तदा खलु बकोऽयमितीह लोकैः ॥९७०॥ हेलया राजहंसेन यत् कृतं कलकूजितम् । न तद् वर्षशतेनापि जानात्याशिचितुं बकः ॥९७१॥ उष्ट्राणां च गृहे लग्नं गर्दभाः शान्तिपाठकाः। परस्परं प्रशंसन्ति अहो रूपम् अहो ध्वनिः! ॥९७२॥