________________
( १४६ )
केचिद् वृष्टिभिरार्द्रयन्ति वसुधां गर्जन्ति केचिद् वृथा यं यं पश्यसि तस्य तस्य पुरतो मा ब्रूहि दीनं वचः । ९५९ ॥ यास्यति जलधरसमयस्तव च समृद्धिर्लघीयसी भविता । afनि ! तद्रुमपातनपातकमेकं चिरस्थायि ॥ ९६० ॥
दानार्थिनो मधुकरा यदि कर्णतालैः, दूरीकृताः करिवरेण मदांधबुद्धया । तस्यैव गण्डयुगमण्डनहानिरेषा
भृंगाः पुनर्विकचपद्मवने वसन्ति ॥ ९६१ ॥ किं केकीब शिखण्डमण्डिततनुः किं कीरवत् पाठकः, किं वा हंस इवांगनागतिगुरुः शारीव किं सुस्वरः । किं वा हन्त शकुन्तबालापिकवत् कर्णामृतं सिञ्चति, काकः केन गुणेन काञ्चनमये व्यापारितः पञ्जरे ॥ ९६२ ॥ स्थितिं नो रे दध्याः क्षणमपि मदान्धेक्षण सखे गजश्रेणीनाथ त्वमिह जटिलायां वनभुवि । सौ कुंभिभ्रान्त्या खरनखरविद्रावितमहागुरुग्रावग्रामः स्वपिति गिरिगर्भे हरिपतिः चातकस्य मुखचंचु संपुटे
नो पतंति यदि वारिबिंदवः । सागरीकृत महीतलस्य किं दोष एव जलदस्य दीयते रे रे रासभ ! वस्त्रभारवहनात् कुग्रासमश्नासि किम् ? राजाश्वावसथं प्रयाहि चणकाम्यूषान् सुखं भक्षय ।
॥ ६६४ ॥
॥ ६६३ ॥