SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ क्रोशन्तः शिशवः सवारि सदनं पङ्कावृतं चांगणं, शय्या दंशवती च रुक्षमशनं धूपेन पूर्ण गृहम् । भार्या निष्ठुरभाषिणी प्रभुरपि क्रोधेन पूर्णः सदा स्नानं शीतलवारिणा हि सततं धिग् धिग् गृहस्थाश्रमम् ।। ॥९५२ ॥ न विप्रपादोदकपङ्किलानि, न वेदशास्त्रध्वनिगर्जितानि । स्वाहास्वधाकारविवर्जितानि श्मशानतुल्यानि गृहाणि तानि ॥६५३ ।। न विषं विषमित्याहुब्रह्मस्वं विषमुच्यते । विषमेकाकिनं हन्ति ब्रह्मस्वं पुत्रपौत्रकम् ॥६५४ ॥ ___ भार्यावियोगः स्वजनापवाद, .. ऋणस्य शेष कृपणस्य सेवा । .. दारिद्यकाले प्रियदर्शनं च . विनामिना पञ्च दहन्ति कायम् ॥९५५ ॥ चिता चिन्ता समा ह्युक्ता, बिन्दुमात्रं विशेषतः । सजीवं दहते चिन्ता, निर्जीवं दहते चिता ॥९५६ ॥ दिव्यं चूतरसं पीत्वा, गर्व नायाति कोकिलः। पीत्वा कर्दमपानीयं, मेको रटरटायते ॥६५७॥ भद्रं कृतं कृतं मौनं, कोकिलैलदागमे। दर्दुरा यत्र वक्तारा, तत्र मौनं हि शोभनम् ॥६५८ ॥ रेरे चातक सावधानमनसा मित्र क्षणं श्रूयताम् , अम्भोदा बहवो हि सन्ति गगने सर्वे तु नैतादृशाः।
SR No.002455
Book TitleSubhashit Shloak Tatha Stotradi Sangraha
Original Sutra AuthorN/A
AuthorBhavvijay
PublisherBhupatrai Jadavji Shah
Publication Year1935
Total Pages400
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy