SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ (१४) सोपानमासाद्य करोति शन्दं ਠਠੇ ਠਠ ਠਠਠ ਠਠ ਨ ॥१४॥ जम्बूफलानि पकानि पतन्ति विमले जले। कपिकम्पितशाखाम्यो गुलुगुग् गुलुगुग्गुलुः ॥ ६४४ ॥ नवनीतमयं लिंगं पूजार्थे केनचित् कृतम् । हन्त तस्य प्रमादेन ओतुना भचितः शिवः ॥६४५ ॥ पतिश्वशुरता ज्येष्ठे पतिदेवरतानुजे। इतरेषु च पाश्चान्यास्त्रितयं त्रितयं त्रिषु ॥६४६ ॥ यदि रामा यदि च रमा, यदि तनयो विनयधीगुणोपेतः। तनये तनयोत्पत्तिः, सुरवरनगरे किमाधिक्यम् ॥६४७ ॥ लोभमूलानि पापानि व्याधयो रसमूलकाः । स्नेहमूलानि दुःखानि त्रयं त्यक्त्वा सुखी भवेत् ॥ ६४८॥ यत्र नास्ति दधिमन्थनघोषो यत्र नो लघुलघूनि शिशूनि । यत्र नास्ति गुरुगौरवपूजा तानि कि बत गृहाणि वनानि ॥९४६॥ अर्थागमो नित्यमरोगिता च प्रिया च भार्या प्रियवादिनी च । वश्यश्च पुत्रोऽर्थकरी च विद्या षड् जीवलोकस्य सुखानि राजन् ॥ ६५० ॥ सदा वक्रः सदा क्रूरः सदा पूजामपेक्षते । कन्याराशिस्थितो नित्यं जामाता दशमो ग्रहः ॥९५१ ।।
SR No.002455
Book TitleSubhashit Shloak Tatha Stotradi Sangraha
Original Sutra AuthorN/A
AuthorBhavvijay
PublisherBhupatrai Jadavji Shah
Publication Year1935
Total Pages400
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy