________________
( 6 ) काम को जितनेवाले स्थूलभद्र को धन्य है। . . वेश्या रागवती सदा तदनुगा षड्भी रसैर्भोजनं,
रम्यं धाम मनोहरं वपुरहो नव्यो वयम्संगमः । कालोऽयं जलदाविलस्तदपि यः कामं जिगायादरात् ,
तं वन्दे युवतिप्रबोधकुशलं श्रीस्थूलभद्रं मुनिम् ॥३८॥ कलियुग का प्रभाव । धर्मः पर्वगतस्तपः कपटतः सत्यं च दूरे गतं, पृथ्वी मंदफला नृपाश्च कुटिलाः शस्त्रायुधा ब्राह्मणाः । लोकः स्त्रीषु रतः स्त्रियोऽतिचपला लौल्ये स्थिता मानवाः, . साधुः सीदति दुर्जनः प्रभवति प्रायः प्रविष्टः (टे) कलि (लौ)३९। निवर्या पृथिवी निरौषधिरसा नीचा महत्त्वं गता, भूपाला निजधर्मकर्मरहिता विप्राः कुमार्गे रताः । भार्या भर्तृवियोगिनी पररता पुत्राः पितुषिणो, हा ! कष्टं खलु दुर्लभाः कलियुगे धन्या नराः सजना॥४०॥ विद्वत्ता वसुधातले विगलिता, पाण्डित्यधर्मों गतः । श्रोतृणां हृदयेष्वबुद्धिरधिका, ज्ञानं गतं चारणे ॥ गाथागीतविनोदवाक्यरचनायुक्त्या जगद्रजितं । ज्योतिर्वैद्यकशास्त्रसारमखिलं शरेषु जातं कलौ ।। ४१ ॥ सीदति संतो विलसंत्यसंतः, पुत्रा म्रियन्ते जनकश्चिरायुः। स्वजनेषु रोषश्च परेषु तोषः, पश्यन्तु लोकाः कलिकौतुकानि