________________
( १४२ ) भक्तद्वेषो जडप्रीतिः सुरुचिर्गुरुलङ्घने मुखे कटुकता नूनं धनिनां ज्वरिणामिव ॥ ६३० ॥ जनस्थाने भ्रान्तं कनकमृगतृष्णाकुलतया
वचो वैदेहीति प्रतिपदमुदश्रु प्रलपितम् । कृतालंकाभर्तुर्वनपपरिपाटीषु घटना
मयाप्तं रामत्वं कुशलवसुता न त्वधिगता ॥९३१॥ जाता शुद्धकुलं जघान पितरं हत्वापि शुद्धा पुनः स्त्री चैषा वनिता पितेव सततं विश्वस्य या जीवनम् । सङ्गं प्राप्य पितामहेन जनकं प्रास्त या कन्यका सा सर्वैरपि वन्दिता चितितले सा नाम का नायिका ॥६३२॥ शमीगर्मस्य यो गर्मस्तस्य गर्भस्य यो रिपुः । रिपुगर्भस्य यो भर्ता स मे विष्णुः प्रसीदतु ॥९३३ ॥ पानीयं पातुगिच्छामि स्वतः कमललोचने । यदि दास्यसि नेच्छामि नो दास्यसि पिबाम्यहम् ॥६३४॥ काचिद् बाला रमणवसतिं प्रेषयन्ती करण्डं
सा तन्मूले समयमलिखद् व्यालमस्योपरिष्टात् । गौरीनाथं पवनतनयं चम्पकं चास्य भावं पृच्छत्यार्यान् प्रति कथमिदं मल्लिनाथः कवीन्द्रः ॥१३॥ अपदो दूरगामी च सादरो न च पण्डितः। प्रमुखः स्फुटवक्ता च यो जानाति स पण्डितः ।। ९३६ ।।