SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ (१४१ ) विना गोरसं को रसो भूपतीनाम् विना गोरसं को रसो भोजनानाम् ॥ २२ ॥ कन्याप्रस्तस्य धनुष्प्रसंगात् भंगाधिकासादितविक्रमस्य । धनंजयाधीनपराभवस्य शीतस्य कर्णस्य च को विशेषः ॥ ९२३ ॥ अहं च त्वं च राजेन्द्र लोकनाथावुभावपि । बहुव्रीहिरहं राजन् षष्ठीतत्पुरुषो भवान् ।।९२४ ।। यो रात्रिंचरशेखरः किल दशास्यः कोणपान्याश्रयः वजाबाधितशक्तिको नृरुधिरं पातुं सदा वाञ्छति । उन्मत्तो मधुयोगतो भवति यस्तन्मत्कुणो रावणः तस्मानश्यति पुत्रपौत्रसहितः सीताभिसंधानतः ॥ ९२५ ॥ द्वंद्वो द्विगुरपि चाहं मद्गेहे नित्यमव्ययीभावः । तत्पुरुष कर्म धारय येनाहं स्यां बहुब्रीहिः ॥६२६ ॥ तनुग्रासे स एव स्याद् असुग्रासेऽपि स स्मृतः। तस्मात् सर्वप्रयत्नेन भवेद् नित्यं सुभोजनः ॥६२७ ॥ शूली जातः कदशनवशाइँक्ष्ययोगात् कपाली वस्त्राभावाद्गगनवसनः स्नेहशून्याजटावान् । इत्थं राजन् तव परिचयादीश्वरत्वं मयाऽऽप्तम् तस्मान्मज्ञं किमिति कृपया नार्धचंद्रं ददासि ॥६२८॥ खलानां धनुषां चापि सवंशजनुषामपि । गुणलामो भवेदाशु परहृभेदकारक: ॥९२९ ॥
SR No.002455
Book TitleSubhashit Shloak Tatha Stotradi Sangraha
Original Sutra AuthorN/A
AuthorBhavvijay
PublisherBhupatrai Jadavji Shah
Publication Year1935
Total Pages400
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy