________________
(१३९) नूनं न दृष्टं कविनाऽपि तेन
दारिद्यदोषो गुणराशिनाशी ॥९१० ॥ कस्त्वं लोहितलोचनास्य चरणः हंसः कुतो मानसात् किं तत्रास्ति सुवर्णपङ्कजवनान्यंभः सुधासनिभम् । रत्नानां निचयाः प्रवाललतिका वैडूर्यरोहः कचित् शम्बूकाः न हि सन्ति नेति च बकैराकर्ण्य हीही कृतम् ६११ गृहात्येष रिपोः शिरः प्रजविनं कर्षत्यसौ वाजिनम् धृत्वा धर्म धनुः प्रयाति पुरतः संग्रामभूमावपि । पूतं चौर्यकथा तथा च शपथं कुर्यात्र वामः करो दानानुधमतां विलोक्य विधिना शौचाधिकारी कृतः ९१२ विप्रास्मिन् नगरे महान् कथयतां तालद्रुमाणां गणः
को दाता रजको ददाति वसनं प्रातगृहीत्वा निशि । को दक्षः परवित्तदारहरणे सर्वोऽपि दचो जनः कस्माजीवसि हे सखे विषकृमिन्यायेन जीवाम्यहम् ॥९१३
भूरिभारभराक्रान्तो बाधति स्कन्ध एष ते न तथा बाधते स्कन्धो यथा बाधति बाधते ॥९१४॥ निरर्थकं जन्म गतं नलिन्या
यया न दृष्टं तुहिनांशुबिम्बम् । उत्पत्तिरिन्दोरपि निष्फलैव
कृता विनिद्रा नलिनी न येन ॥९१५ ॥ भवित्री रम्भोरु त्रिदशवदनग्लानिरधुना
स रामो मे स्थाता न युधि पुरतो लक्ष्मणसखः ।