SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ (१३८ ) व्याघ्र च महदालस्यं सर्प चैव महद्भयम् । पिशुने चैव दारियं तेन जीवन्ति जन्तवः ॥९.३॥ पत्रं नैव यदा करीरविटपे दोषो वसन्तस्य किम् नोलूकोऽप्यवलोकते यदि दिवा सूर्यस्य किं दूषणम् । धारा नैव पतन्ति चातकमुखे मेघस्य किं दूषणम् __ यत्पूर्व विधिना ललाटलिखितं तन्मार्जितुंकः क्षमः ९०४ अधः पश्यसि किं वाले पतितं तव किं भुवि । . रे रे मूढ न जानासि गतं तारुण्यमौक्तिकम् ॥६०५॥ चतुरः सखि मे भर्ता यल्लिखति तत् परो न वाचयति तस्मादप्यधिको मे स्वयमपि लिखितं स्वयं न वाचयति . ॥६०६॥ दश व्याघ्राः जिताः पूर्व सप्त सिंहास्त्रयो गजाः । पश्यन्तु देवताः सर्वाः अद्य युद्धं त्वया मम ।।९०७ ॥ गच्छ सूकर भद्रं ते ब्रूहि सिंहो मया जितः । पण्डिता एव जानन्ति सिंहसूकरयोर्बलम् ॥६०८॥ अनन्तरत्नप्रभवस्य यस्य हिमं न सौभाग्यविलोपि जातम् । एको हि दोषो गुणसंनिपाते निमलतींदोः किरणेष्विवांकः ॥६०९॥ एको हि दोषो गुणसंनिपाते निमजतींदोरिति यो बभाषे।
SR No.002455
Book TitleSubhashit Shloak Tatha Stotradi Sangraha
Original Sutra AuthorN/A
AuthorBhavvijay
PublisherBhupatrai Jadavji Shah
Publication Year1935
Total Pages400
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy