SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ (१३४ ) कुम्भा न कूपमपि शोषयितुं समर्थाः कुम्भोद्भवेन मुनिनाम्बुधिरेव पीतः ॥८७२॥ अन्या जगद्धितमयी मनसः प्रवृत्तिः अन्यैव कापि रचना वचनावलीनाम् । लोकोत्तरा च कृतिराकृतिराहिद्या विद्यावतां सकलमेव चरित्रमन्यत् ॥८७३ ॥ तरुमूलादिषु निहितं, जलमाविर्भवति पल्लवाग्रेषु । निभृतं यदुपक्रियते, तदपि महांतो वहंत्युच्चैः ॥ ८७४ ।। महो किमपि चित्राणि चरित्राणि महात्मनाम् । लक्ष्मी तृणाय मन्यन्ते तद्भरेण नमन्त्यपि ॥८७५ ॥ मौने मौनी गुणिनि गुणवान् पण्डिते पण्डितोऽसौ दीने दीन: सुखिनि सुखवान् भोगिनि प्राप्तभोगः । मूर्खे मृों युवतिषु युवा वाग्मिषु प्रोढवाग्मी धन्यः कोऽपि त्रिभुवनजयी योऽवधूतेऽवधृतः ॥ ८७६ ॥ केनादिष्टौ कमलकुमुदोन्मीलने पुष्पवन्तौ विश्वं तोयैः स्नपयितुमसौ केन वा वारिवाहः । विश्वानन्दोपचयचतुरो दुर्जनानां दुरापः साघ्यो लोके जयति महतामुज्ज्वलोऽयं निसर्गः ॥८७७॥ दुर्जनस्वभावः । खला सर्षपमात्राणि परच्छिद्राणि पश्यति । आत्मनो विन्धमात्राणि पश्यन्नपि न पश्यति ॥८॥ पथितुम दुरापः सर्गः ॥८
SR No.002455
Book TitleSubhashit Shloak Tatha Stotradi Sangraha
Original Sutra AuthorN/A
AuthorBhavvijay
PublisherBhupatrai Jadavji Shah
Publication Year1935
Total Pages400
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy