________________
( १३५ ) अनुकुरुतः खलसुजनावाग्रिमपाश्चात्यभागयोः सूच्याः। विदधाति रन्ध्रमेको गुणवानन्यस्तु पिदधाति ।। ८७९ ॥ त्यजन्ति शूर्पवद् दोषान् गुणान् गृह्णन्ति साधवः । दोषग्राही गुणत्यागी चालिनीव हि दुर्जनः ॥ ८८० ॥ रविरपि न दहति तादृग् यादृक् संदहति वालुकानिकरः । अन्यस्मानन्धपदःप्रायो नीचोऽपि दुःसहो भवति ॥८८१॥ शरदि न वर्षति गर्जति वर्षति वर्षासु निःस्वनो मेघः । नीचो वदति न कृरुते न वदति सुजनः करोत्येव ॥ ८८२॥
उपकारोऽपि नीचानामपकारो हि जायते । . पयःपानं भुजङ्गानां केवलं विषवर्धनम् ॥८८३ ।। . मुखं पद्मदलाकारं वाणी चन्दनशीतला ।
हृदयं कर्तरीतुल्यं त्रिविधं धूर्तलक्षणम् ॥ ८८४ ।। नलिकागतमपि कुटिलं, न भवति सरलं शुनः पुच्छम् । तद्वत् खलजनहृदयं, बोधितमपि नैव याति माधुर्यम् ।।८८५ बोधितोऽपि बहुसूक्तिविस्तर
किं खलो जगति सजनो भवेत् । स्नापितोऽपि बहुशो नदीजलै___ गर्दभः किमु हयो भवेत् कचित् ॥८८६ ।। न देवाय न धर्माय न बंधुभ्यो न चार्थिने। दुर्जनेनार्जितं द्रव्यं भुज्यते राजतस्करैः ॥८८७॥