________________
(१३३) लिखति यदि गृहीत्वा शारदा सर्वकालम् ,
तदपि तव गुणानां ईश ! पारं न याति ॥ ८६५ ॥ जगन्मातर्मातस्तव चरणसेवा न रचिता,
न वा दत्तं देवि द्रविणमपि भूयस्तव मया । तथापि त्वं स्नेहं मयि निरुपमं यत् प्रकुरुषे, ___ कुपुत्रो जायेत क्वचिदपि कुमाता न भवति ।।८६६॥ घृष्टं घृष्टं पुनरपि पुनश्चंदनं चारुगन्धं __ छिन छिन्नं पुनरपि पुनः स्वादु चैवेचुकाण्डम् । दग्धं दग्धं पुनरपि पुनः काञ्चनं कान्तवर्णम् ___न प्राणान्ते प्रकृतिविकृतिर्जायते चोत्तमानाम् ।।८६७॥ मुक्त्वा निःश्रीकमप्यन्जं मराली न गतान्यतः । अमराली त्वगाद् वेगादिदं सदसदन्तरम् ॥ ८६८ ॥
असद्भिः शपथेनोक्तं जले लिखितमचरम् । सद्भिस्तु लीलया प्रोक्तं शिलालिखितमचरम् ।।८६९॥ आपदो महतामेव महतामेव संपदः । बीयते वर्धते चन्द्रः कदाचिनैव तारकाः ॥ ८७० ।। गुणग्रामाविसंवादि नामापि हि महात्मनाम् । यथा सुवर्णश्रीखण्डरत्नाकरसुधाकराः ॥८७१ ॥ कि जन्मना च महता पितृपौरुषेण ..
शक्या हि याति निजया पुरुषः प्रतिष्ठाम् ।