________________
(१३२) रुधिरमांसमेदोऽस्थि. मलमूत्रादिपूरितम् । नवद्वार रतविस्य रसक्लिनमिदं वपुः ।। ८५९ । वणिपण्यांगना दस्युचूतकृत्पारदारिकः ।
स्वार्थसाधकनिद्रालु सप्तासत्यस्य मन्दिरम् ॥ ८॥ गुर्वेकवाक्यादपि पापभीता, राज्यं त्यजन्ति स्म नरा हि सन्ता व्याख्यासहस्रनं भवेद् विरागो, ध्रुवं कलौ वज्रहदो मनुष्याः
१८६१ ॥ अङ्गं गलितं पलितं मुण्डं, .
जातं दशनविहीनं तुण्डम् । वृद्धो याति गृहीत्वा दण्डं
तदपि न मुश्चत्याशापिण्डम् ॥८६२॥ लक्ष्मी कौस्तुभपारिजातकसुराः धन्वंतरिश्चंद्रमाः
गांवः कामदुधाः सुरेश्वरगजो रंभादिदेवांगनाः। अश्वः सप्तमुखो विषं हरिधनुः शंखोऽमृतं चांबुधेः रत्नानीह चतुर्दश प्रतिदिनं कुर्यात् सदा मंगलम् ॥८६॥ चीरिण्यः सन्तु गावो भवतु वसुमती सर्वसंपनशस्या, पर्जन्यः कालवर्षी सकलजनमनोनन्दिनो वान्तु वाताः । मोदन्तां जन्मभाजः सततमभिमता ब्राह्मणाः सन्तु सन्तः श्रीमन्तः पान्तु पृथ्वीं प्रशमितरिपको धर्मनिष्ठाश्च भूपा८६४
असितगिरिसमं स्यात् कजलं सिंधुपात्रे, ... सुरतरुवरशाखा लेखिनी पत्रमुवी ।