SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ (१३१) भवन्त्यभिप्रेतफला यतस्ततो भवन्तमार्या: प्रणता हितैषिणः ॥ ८४६ ॥ औषधं शकुन मन्त्रं, नचत्रं गृहदेवता। भाग्यकाले प्रसीदन्ति, अभाग्ये यान्ति विक्रियाम् ॥८४७॥ अग्निर्विप्रो यमो राजा, समुद्र उदरं स्त्रियः । अतृप्ता नैव तृप्यन्ति, याचन्ते च दिने दिने ॥ ८४८ ॥ स्त्रीचरित्रं प्रेमगति, मेघोत्थानं नरेन्द्रचित्तं च। . विषमविधिविलसितानि च को वा शक्नोति विज्ञातुम् ८४९ सत्येन धार्यते पृथ्वी, सत्येन तपते रविः सत्येन वायवो वान्ति, सर्व सत्ये प्रतिष्ठितम् ।। ८५० ॥ अंतर्विषमा हि ता ज्ञेया, बहिरेव मनोहराः । गुंजाफल समाकारा, योषितः केन निर्मिताः ॥८॥२॥ कुटिलगतिः कुटिलमतिः, कुटिलात्मा कुटिलशीलसंपन्ना । सर्व पश्यति कुटिलं कुटिलः कुटिलेन भावेन ॥ ८५३ ।। संपीन्याहिदंष्ट्राऽग्नि-यम जिह्वा-विषव्रजात् । जगजिघांसुना नायः कृता क्रूरेण वेधसा ॥८५५ ॥ समेषु शौर्य प्रशमं महत्सु नीचेष्ववज्ञां प्रणतेषु मानं । वृजत्वं निपुणे विदध्याद् धूर्तेषु कुर्यादतिधूर्तभावम् ।।८५६॥ वारिदस्तृप्तिमानोति सुखमक्षयमन्त्रदः।। तिलप्रदः प्रजाभीष्टामायुष्कमभयप्रदः ॥८५७ ॥
SR No.002455
Book TitleSubhashit Shloak Tatha Stotradi Sangraha
Original Sutra AuthorN/A
AuthorBhavvijay
PublisherBhupatrai Jadavji Shah
Publication Year1935
Total Pages400
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy