________________
( १२६ )
किं पुनः स्मरविस्मेरा, विस्फारितविलोचनः । विवेकी यत् श्रियं प्राप्य सत्कार्ये न प्रणोद्यति ॥ ८११ ॥ आवर्तः संशयानामविनयभवनं पत्तनं साहसानां, दोषाणां संनिधानं कपटशतगृहं क्षेत्रमप्रत्ययानाम् । दुर्ग्राह्यं यन्महद्भिर्नरवरवृषभैः सर्वमायाकरण्डं, स्त्रीयन्त्रं केन लोके विषममृतमयं शर्मनाशाय सृष्टम् १ ॥
॥ ८१२ ॥
निषिद्धमप्याचरणीयमापदि क्रिया सती नावति यत्र सर्वथा । घनाम्बुना राजपथे हि पिच्छिले, कचिद् बुधै रथ्यापथेन गम्यते द्वयं गतं संप्रति शोचनीयतां समागमप्रार्थनया कपालिनः । कला च सा कान्तिमती कलावतस्त्वमस्य लोकस्य च नेत्रकौमुदी ॥ ८१३ ॥
शत्रुंजयः शिवपुरं, नदी शत्रुंजयाभिधा । श्री शान्तिः शमिनां दानं शकाराः पंच दुर्लभाः॥ ८१४ ॥
प्राप्तुं पारमपारस्य पारावारस्य पर्य | स्त्रीणां प्रकृतिवक्राणां दुश्चरित्रस्य नो पुनः ॥ ८१५ ॥
षट्कर्णो भिद्यते मंत्र - चतुष्कर्णो न भिद्यते । द्विकर्णस्य तु मंत्रस्य, ब्रह्माप्यन्तं न गच्छति ॥१६॥ लंकेशोऽपि दशाननोऽपि विजिताशेष त्रिलोकोऽपि सन्, रचोलचयुतोऽपि सेन्द्रजिदपि व्यापाद्यते रावणः ।