________________
(१२५ ) विषयव्याकुलचित्तो, हितमहितं वा न वेत्ति जन्तुरयम् । तस्मादनुचितचारी, चरति चिरं दुःखकान्तारे ॥८०३ ।। रक्तः शब्देन हरिणः, स्पर्शाबागो रसेन वारिचरः। पणपतंगो रूपे, भुजंगो गंधेन तु विनष्टः ॥८०४ ॥ अनम्यासे विषं शास्त्रं, अजीर्णे भोजनं विषम् । दरिद्रस्य विषं गोष्ठी, वृद्धस्य तरुणी विषम् ॥८०५ ॥ रसातलं यातु यदत्र पौरुषं, कुनीतिरेषा शरणो ह्यदोषवान् । निहन्यते यद्धलिनाऽपि दुर्बलो, हहा महाकष्टमराजकं जगत्
__ ॥८०६ ।। कन्दः कन्याणवल्ल्याः सकलसुखफलप्रापणे कल्पवृक्षो,' - दारिद्योद्दीप्तदावानलशमनघनो रोगनाशैकवैद्यः । भेयाश्रीवश्यमन्त्रो विगलितकलुषो भीमसंसारसिन्धोः, तारे पोतायमानो जिनपतिगदितः सेवनीयोऽत्र धर्मः
॥ ८०७॥ संवत्सरेण यत्पापं, कैवर्तकस्य जायते । एकाहेन तदाप्नोति, अपूतजलसंग्रही . ॥८०८ ॥ उपकारिषु यः साधुः, साधुत्वे कीदृशो गुणः । अपकारिषु यः साधुः, श्लाघ्यः स भुवि मानवैः ।।८०९।। विवेको न भवेत् प्रायो, जन्तोर्दुर्गतिगामिना, चित्रस्था अपि चेतांसि, हरन्ति हरिणीदृशः ॥१०॥