________________
(१२४) मृच्यालनीमहिसहंसशुकस्वभावा,
मार्जारकाकमशका च जलौकसाम्या । सच्छिद्रकुम्भपरिकर्षशिलोपमानं,
श्रोतुर्गुणा भुवि चतुर्दशधा भवन्ति ॥ ७९४ ॥ प्राज्ञः प्राप्तसमस्तशास्त्रहृदयः प्रव्यक्तलोकस्थितिः, प्रस्ताशः प्रतिभापरः प्रशमवान् प्रागेव दृष्टोत्तरः । प्रायः प्रश्नसहः प्रभुः परमनोहारी परानिन्दया, . ब्रूयाद् धर्मकथां गुणी गुणनिधिः प्रस्पष्टमिष्टाक्षरः॥७९॥ चिन्तया नश्यते बुद्धिः, चिंतया नश्यते बलम् । चिन्तया नश्यते ज्ञानं, व्याधिर्भवति चिन्तया ॥ ७९६ ॥ अर्थानामर्जने दुःखं, अर्जितानां च रक्षणे । आये दुःखं व्यये दुःखं, धिगर्थो दुःखभाजनम् ॥ ७९७॥ विनयेन विद्या ग्राह्या, पुष्कलेन धनेन वा। अथवा विद्यया विद्या, चतुर्थ नास्ति कारणम् ॥ ७९८ ॥ नाणाविहाई दुक्खाई, अनुहोंति पुणो पुणो । संसारचक्कवालंमि, मच्चुवाहिजराकुले ॥७९९ ॥ उच्चावयाणि गच्छन्ता, गम्भमेस्संति णंतसो । नायपुत्ते महावीरे, एवमाह जिणोत्तमे ॥ ८०० ॥ स्रष्टा यन सृजेत् सृष्टी, हरो ध्यानेन दृष्टवान् । नोदरे वैष्णवे चास्ति, तत् कुर्वन्ति स्त्रियोऽदयाः ॥८०१॥ घूतासक्तस्य सञ्चित्तं, धनं कामाः सुचेष्टितम् । नश्यन्त्येव परं शीर्ष, नामापि च विनश्यति ॥८०२ ॥