SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ . (१२३) दुष्टानां दुर्जनानां च, पापिनां क्रूरकर्मणाम्। . अनाचारप्रवृत्तानां, पापं फलति तद्भवे ॥७८६ ।। परोपकारः कर्त्तव्यः, प्राणैरपि धनैरपि । परोपकारजं पुण्यं, न स्याद्यज्ञशतैरपि ॥ ७८७ ॥ तीर्थस्नानैर्न सा शुद्धि-बहुदानैर्न तत्फलं । तपोभिरुप्रैस्तन्नाप्य-मुपकाराद्यदाप्यते ॥७८८ ॥ उदयति यदि भानुः पश्चिमायां दिशायां विकसति यदि पनं पर्वताग्रे शिलायाम् । . प्रचलति यदि मेरुः शीततां याति वह्नि स्तदपि न चलतीयं भाविनी कर्मरेखा ॥७८९ ॥ शंभुस्वयंभूहरयो हरिणेक्षणानां, . येनाक्रियन्त सततं गृहकुम्भदासाः । ...वाचामगोचरचरित्रविचित्रिताय, तस्मै नमो भगवते मकरध्वजाय ॥ ७९० ॥ दैत्येन दानवेनैव, राज्ञा सिंहेन हस्तिना। रक्षसा ताड्यमानोऽपि, न गच्छेच्छैवमन्दिरम् ॥ ७९१ ॥ पश्चापि मम रोचन्ते, पाण्डवास्तात ! सुन्दराः । तथापि बलीयान् कामो, मतिः षष्ठेऽपि जायते ॥ ७९२॥ तारुण्यं दुममञ्जरी किमथवा कन्दर्पसंजीवनी, किं लावण्यनिधानभूमिरथवा संपूर्णचन्द्रावली । किं नारी किमु किनरी किमथवा विद्याधरी वाथ कि, केयं केन कियच्चिरेण कियता कस्मै कथं निर्मिता १॥७९३॥
SR No.002455
Book TitleSubhashit Shloak Tatha Stotradi Sangraha
Original Sutra AuthorN/A
AuthorBhavvijay
PublisherBhupatrai Jadavji Shah
Publication Year1935
Total Pages400
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy