________________
(१२१) अपरीचितं न कर्त्तव्यं, कर्त्तव्यं सुपरीक्षितम् ।। पश्चाद्भवति संतापो, ब्राह्मणी नकुलं यथा ॥ ७७० ॥ शकटात्पंचहस्तेषु, दशहस्तेषु वाजिनः । हस्तिनः शतहस्तेषु, देशत्यागश्च दुर्जनात् ॥ ७७१ ॥ न विश्वसेत्पूर्वविरोधितस्य, शत्रोच मित्रत्वमुपागतस्य । दग्धा गुहा पश्य उलूकपूर्णा, काकप्रकीर्णेन हुताशनेन
राज्ञि धर्मिणि धर्मिष्ठाः, पापे पापाः समे समाः।
राजानमनुवर्तन्ते, यथा राजा तथा प्रजाः ॥ ७७२ ॥ शास्त्रे सुनिश्चितधिया परिचिन्तनीय
माराधितोऽपि नृपतिः परिशंकनीयः । अंके स्थिताऽपि युवतिः परिरक्षणीया ' शास्त्रे नृपे च युवतौ च कुतः स्थिरत्वम् ? ॥ ७७३॥
हावो मुखविकारः स्याद् , भावश्चित्तसमुद्भवः। विलासो नेत्रजो ज्ञेयो, विभ्रमो भ्रूसमुद्भवः ॥ ७७४ ॥ गतानुगतिको लोको, न लोकः पारमार्थिकः । शोको राजकुले सर्वे, कुन्तकुन्मदने मृते ॥७७५ ॥ दश धर्म न जानन्ति, धृतराष्ट्र निबोधनात् । मूर्खः प्रमत्त उन्मत्तः, क्रुद्धः श्रान्तो बुझुचितः त्वरमाणश्च रक्तश्च लुब्धकामी च ते दश ॥ ७७६ ॥ मांसास्वादनलुब्धस्य, देहिनं देहिनं प्रति । हन्तुं प्रवर्तते बुद्धिा, शाकिन्या इव दुर्धियः॥ ७७७ ।।