________________
(१२०) दानेन प्राप्यते लक्ष्मीः, शीलेन सुखसंपदा । तपसा क्षीयते कर्म, भावना भवनाशिनी ॥५६१ ॥ आग्रही बत निनीषति युक्ति, तत्र यत्र मतिरस्य निविष्टा । पाक्षपातरहितस्य तु युक्ति-यंत्र तत्र मतिरेति निवेशम् ॥७६२॥ त्रयः स्थानं न मुञ्चति, काकाः कापुरुषा मृगाः। अपमाने त्रयो यान्ति, सिंहाः सत्पुरुषा गजाः ॥ ७६३ ॥ उत्तमाः स्वगुणैः ख्याता, मध्यमास्तु पितुर्गुणैः। अधमा मातुलैः ख्याताः, श्वशुरैरधमाधमाः ॥ ७६४ ।। स्त्रीजातौ दाम्भिकता, भीलुकता भूयसी वणिग्जातौ । रोषः क्षत्रियजातो, द्विजातिजातौ पुनर्लोभः ॥७६५ ॥ विरोधो नैव कर्तव्यः, साक्षरेभ्यो विशेषतः। त एव विपरीताः स्यु, राक्षसा एव केवलम् ॥ ७६६ ॥ अनुचितकर्मारंभः, स्वजनविरोधो बलीयसा स्पर्धा। प्रमदाजनविश्वासो, मृत्युद्वाराणि चत्वारि ॥७६७ ॥ कान्तावियोगः स्वजनापमानं,
रणस्य भीतिः कुजनस्य सेवा । दरिद्रभावः खलसंगमश्च,
विनाग्निना पंच दहन्ति देहम् ॥७६८ ॥ भिक्षुर्विलासी निर्धनश्च कामी,
वृद्धो विटः प्रव्रजितश्च मूर्खः । पण्यांगना रूपविलासहीना, .. प्राजायत दुश्चरितानि पंच ॥७६९॥