________________
( ११६ )
।। ७५१ ॥
नमस्तुभ्यं भवाम्भोधि-- यानपात्राय तायिने । स्वतः शिवसुखानंद, प्रार्थये नतवत्सल ! तब प्रेष्योऽस्मि नाथाहं त्वत्तो नाथामि नाथताम् । जगच्छरण्य ! मां रच, प्रसीद परमेश्वर ! ।। ७५२ ।।
"
क्वाहं बुद्धिधनैर्हीनः क्व च त्वं गुणसागरः । तथापि त्वां स्तवीम्येष त्वद्भक्तिमुखरीकृतः ॥ ७३३ ॥ त्वया हतास्तपोऽस्त्रेण, सर्वथान्येन दुर्जयाः । रागाद्या रिपवः स्वामि- नात्मनः स्वार्थघातकाः ||७५४ || रागाद्यै रिपुभिर्देवा भाषा अन्यैर्विडंबिताः, पश्यति ते बहिः शत्रून् विहायार्तनिकेतिन अनन्तज्ञानमाहात्म्यवारिधे ! चतुरप्रभो ! | जगत्प्रदीप ! भगवन् ! नाभेय ! भवते नमः
।। ७५५ ।।
अष्टांगानि तथा नाथ ! भवान् योगस्य निर्ममे | यथा तानि प्रवर्तन्ते, कर्माष्टकनिपिष्टये
रत्नेन काञ्चनमिव, तेजसेव नभोमणिः । अलंकृतं त्वया नाथ तीर्थं शत्रुंजयं ह्यदः
॥७५६॥
शत्रुंजयशिरोरत्नं, श्रीनाभिकुलभास्करम् । स्वर्गापवर्गव्यापारं निदानं त्वां विभो स्तुमः ॥ ७५८ ॥
नाभ्यर्थये स्वर्गसुखं, न मोक्षं न नरश्रियम् । सदा त्वत्पादपद्मानि वसन्तु मम मानसे
॥ ७५७ ॥
।। ७५६ ॥
॥ ७६० ॥