SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ ( ११८ ) विद्याका अध्ययन सहेल नही है । नानुद्योगवता न च प्रवसता मानं न चोत्कर्षता, नालस्योपहतेन नान्यमनसा नाचार्यविद्वेषिणा । न भ्रूभंगकटाच सुन्दरमुखीं सीमन्तिनीं ध्यायता, लोके ख्यातिकरः सतां बहुमतो विद्यागुणः प्राप्यते । । ७४४ ॥ श्रीशीतलनाथ तीर्थंकरका पृथक् २ वर्ण में रहा हुआ महत्त्व | आद्येन हीनं जलधावदृष्टं, मध्येन हीनं भुवि वर्णनीयम् । अन्त्येन हीनं धुनुते शरीरं, तन्नामकं तीर्थपतिं नमामि ॥ " शीतल " ।। ७४५ ॥ दरिद्रताकी शंकासे लोभी और दाता क्या करते है । लुब्धो न विसृजत्यर्थ, नरो दारिद्र्यशंकया । दाताऽपि विसृजत्यर्थ, तयैव ननु शंकया ॥ ७४६ ॥ ध्येयस्त्वं सर्वसत्त्वानामन्यं ध्यायसि न प्रभो ! | पूज्यस्त्वं विबुधेशाना-मपि पूज्यो न ते क्वचित् ॥ ७४७|| आद्यस्त्वं जगतां नाथ, नैवाद्यः कोऽपि ते प्रभो ! । स्तुत्यस्त्वं स्तूयसे नान्यं, जगदीश्वरभावतः ।। ७४८ ॥ शरण्यस्त्वं हि सर्वेषां न कोऽपि शरणं तव । त्वं प्रभुर्विश्वविश्वस्य, प्रभुरन्यो न ते जिन ! ॥ ७४९ ॥ मुक्तिसौख्यं त्वदायत्तं तद्दाता यत्परो नहि । परात्परतस्त्वं हि तवास्ति न परः क्वचित् ॥ ७५० ॥ ?
SR No.002455
Book TitleSubhashit Shloak Tatha Stotradi Sangraha
Original Sutra AuthorN/A
AuthorBhavvijay
PublisherBhupatrai Jadavji Shah
Publication Year1935
Total Pages400
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy