________________
(११५) दानादि कैसे निष्फल जाते हैं ?
दानं पूजा तपश्चैव, तीर्थसेवा श्रुतं तथा ।
सर्वमेव वृथा तस्य, यस्य शुद्धं न मानसम् ॥७२६॥ किसका शकुन अच्छा होता है ? ।
वामस्वरा शिवा श्रेष्ठा, पिंगला दविणस्वरा ।
प्रदक्षिणा च वामा च, कोकिला सिद्धिदायिनी ॥७२७॥ भाग्यको भी बिचार करना पडता है।
उद्यमः साहसं धैर्य, बलं बुद्धिः पराक्रमः।
षडेते यस्य विद्यन्ते, तस्य देवोऽपि शंकते ॥ ७२८॥ लक्ष्मी कहां स्थिर नहीं होती है। .. वेश्यासक्तस्य चौरस्य, द्यूतकारस्य पापिनः ।
अन्यायोपार्जकस्यैव, पुंसो लक्ष्मीः स्थिरा नहि ।।७२९॥ कौनसा पुरुष माननीय होता है ? । दानेन लक्ष्मीविनयेन विद्या, नयेन राज्यं सुकतेन जन्म । परोपकारक्रिययाऽपि कायः, कृतार्थ्यते येन पुमान् स मान्यः
|| ७३०॥ धन ही पुरुषका सच्चा मित्र है। त्यजन्ति मित्राणि धनविहीन, पुत्राश्च दाराश्च सहोदराश्च । तमर्थवन्तं पुनराश्रयन्ति, अर्थो हि लोके पुरुषस्य बन्धुः
॥७३१॥