SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ ( ११४ ) सन्तः सच्चरितोदयव्यसनिनः प्रादुर्भवद्मन्त्रणाः, सर्वत्रैव जनापवादचकिता जीवन्ति दुःखं सदा । अव्युत्पन्नमतिः कृतेन न सता नैवासता व्याकुलो, युक्तायुक्तविवेकशून्यहृदयो धन्यो जनः प्राकृतः ॥ ७२० ।। रत्याप्तप्रियलाञ्छने कठिनता वासे रसालिङ्गिते, प्रह्लादैकरसे क्रमादुपचिते भूभृद्गुरुत्वाप । कोकस्पर्धिनि भोगभाजि जनतानङ्गे खलीनोन्मुखे, भाति श्रीरमणावतारदशकं वाले भवत्याः स्तने ॥ ७२१ ॥ किसी भी रीति से प्रसिद्धि में आना चाहिए । घटं भित्त्वा पटं छत्वा कृत्वा रासभरोहणं । येन केन प्रकारेण, प्रसिद्धः पुरुषो भवेत् ॥ ७२२ ॥ व्यसनों से हानि । द्यूतं च मांसं च सुरा च वेश्या, पापर्द्धिचौर्ये परदारसेवा । एतानि सप्तव्यनांनि लोके, घोरातिघोरं नरकं नयन्ति ॥ ।। ७२३ ॥ द्यूताद् राज्यविनाशनं नलनृपः प्राप्तोऽथवा पाण्डवाः, मद्यात्कृष्णनृपश्च राघवपिता पापर्द्धितो दूषितः । मांसात् श्रेणिकभूपतिश्च नरके चौर्याद्विनष्टा न के ? वेश्यातः कृतपुण्यको गतधनोऽन्यस्त्री मृतो रावणः ॥७२४॥ तात्कालिक पाप को कौन नष्ट करता है ? सद्यः प्रीतिकरो नादः, सद्यः प्रीतिकराः स्त्रियः सद्यः शीतहरो वह्निः, सद्यः पापहरो जिनः ॥७२५ ॥
SR No.002455
Book TitleSubhashit Shloak Tatha Stotradi Sangraha
Original Sutra AuthorN/A
AuthorBhavvijay
PublisherBhupatrai Jadavji Shah
Publication Year1935
Total Pages400
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy