________________
( ११३ )
पुण्यात् स्वर्गमुपैति मानुषगतिं प्राप्नोति तन्मिश्रणात्, मुक्तिं गच्छति पुण्यपापविलयादित्याह तवं जिनः ||७१४ ॥ भग्गो ट्ठो मुवि गिरिकन्दरपइट्ठो ।
तत्थ व सासदेव पसाए सावजो दिट्ठो || ७१५ ।।
कुलीन पुरुष किस को कहते हैं ? |
प्रदानं प्रच्छन्नं गृहमुपगते संभ्रमविधिनिरुत्सेको लक्ष्म्यामनभिभवगन्धाः परकथाः । प्रियं कृत्वा मौनं सदसि कथनं चाप्युपकृते:, . श्रुतेऽत्यन्तासक्तिः पुरुषमभिजातं कथयति ॥ ७१६॥ रात्रिर्गमिष्यति भविष्यति सुप्रभातं, भास्वानुदेष्यति हसिष्यति पङ्कजश्रीः ।
इत्थं विचिन्तयति कोशगते द्विरेफे,
॥ ७१७ ॥
हा हन्त हन्त नलिनीं गज उज्जहार मय्येव जीर्णतां यातु, यत् त्वयोपकृतं हरेः । नरः प्रत्युपकारार्थी, विपत्तिमभिकांक्षति ॥ ७१८ ।। यक्षेत्र समानकान्ति सलिले मग्नं तदिन्दीवरं, . मेघैरन्तरितः प्रिये तव मुखच्छायाऽनुकारी शशी । येsपि त्वद्गमनानुसारिगतयस्ते राजहंसा गतास्त्वत्सादृश्यंविनोदमात्रमपि मे दैवेन न क्षम्यते ||७१६ ॥