________________
(१०९) कर्मणो हि प्रधानत्वं किं कुर्वन्ति शुभा ग्रहाः। वसिष्ठदत्तलग्नोऽपि रामः प्रव्रजितो वने ॥६८९ ॥ जातेति शोको महतीति चिन्ता, कस्य प्रदेयेति महान् वितर्कः। दत्ता सुखं स्थास्यति वा न वेति,कन्यापितृत्वं खलु नाम कष्टम् ॥ विलंबो नैव कर्तव्यो आयुर्याति दिने दिने । न करोति यमः क्षांतिं धर्मस्य त्वरिता गतिः ॥ ६९० ।। जैनो धर्मः प्रकटविभवः संगतिः साधुलोके । विद्वद्गोष्ठी वचनपटुता कौशलं सर्वशास्त्रे ॥ साध्वी लक्ष्मीश्चरणकमलोपासना सद्गुरूणां । शुद्धं शीलं मतिरमलिना प्राप्यते भाग्यवद्भिः ॥ ६९१ ॥ जिनभक्तिः कृता तेन, शासनस्योन्नतिस्तथा । साधर्मिकेषु वात्सन्यं कृतं येन सुबुद्धिना ॥६९२ ।। षष्टिमिनके दोषा, अशीतिमधुपिंगले। शतं च टुंडमुंटे च, काणे संख्या न विद्यते ॥ ६९३॥ तावद् गजः प्रमृतदानगण्डः, करोत्यकालाम्बुदगर्जितानि । यावन्न सिंहस्य गुहास्थलीषु, लाशूलविस्फोटरवं शृणोति
॥६९४ ॥ क्षान्तं न क्षमया गृहोचितसुखं त्यक्तं न संतोषतः, . सोढा दुःसहतापशीतपवनक्लेशा न तप्तं तपः । ध्यातं वित्तमहर्निशं नियमितं द्वन्द्वैर्न तचं पर, तत् तत्कर्म कृतं सुखार्थिभिरहो तैस्तैः फलैवंचिताः॥६९।।