________________
( १०८ )
अक्खाणणी कम्माण मोहणी तह वयाण बंभवयं । गुत्तीय य मणगुत्ती चउरो दुक्खेण जिप्पंति ॥६८१॥ वनेऽपि दोषाः प्रभवन्ति रागिणां गृहेऽपि पंचेन्द्रियनिग्रहस्तपः । कुत्सिते कर्मणि यः प्रवर्तते, निवृत्तरागस्य गृहं ततो वनम् ॥ ॥ ६८२ ॥ यः प्राप्य दुष्प्रापमिदं नरत्वं, धर्म न यत्नेन करोति मूढः । क्लेशप्रबन्धेन स लब्धमब्धौ चिंतामणि पातयति प्रमादात् ॥ ६८३ ॥ श्रासन्नमेव नृपतिर्भजते मनुष्यं, विद्याविहीनमकुलीनमसंस्तुतं च प्रायेण भूमिपतयः प्रमदा लताश्च यत्पार्श्वतो भवति तत्परिवेष्टयंति ।। ६८४ ।। अनागतं यः कुरुते स शोभते, न शोभते यों न करोत्यनागतम् वने वसन्तस्य जराप्युपागता, बिलस्य वाचा न कदापि निर्गता ॥ ६८५ ॥ किं किं न कयं को को न पत्थिश्रो. कहकहवि न नामियं ससिं । दुब्भरपिट्टस्स कए, किं न कथं किं न कापव्वं ॥ ६८६ ॥
कुलं च शीलं च सनाथता च, विद्या च वित्तं च वपुर्वयश्च । एतान गुणान् सप्त निरीक्ष्य देया, ततः परं भाग्यवशा च कन्या ।। ६८७ ।
कृतकर्मक्षयो नास्ति कल्पकोटिशतैरपि । अवश्यमेव भोक्तव्यं कृतं कर्म शुभाशुभम्
।। ६८८ ॥