________________
(१०७) नरत्वं दुर्लभं लोके विद्या तत्र च दुर्लभा । कवित्वं दुर्लभं तत्र शक्तिस्तत्र च दुर्लभा ॥६७४ ।। काव्यालापाश्च ये केचित् गीतकान्यखिलानि च । शब्दमूर्तिधरस्यैते विष्णोरंशा महात्मनः ॥६७५ ॥ न्यकारो ह्ययमेव मे यदरयस्तत्राप्यसौ तापसः। सोऽप्यत्रैव निहन्ति राक्षसकुलं जीवत्यहो रावणः ॥ धिग् धिक् शक्रजितं प्रबोधितवता किं कुम्भकर्णेन वा । स्वर्गग्रामटिकाविलुण्ठनवृथोच्छूनैः किमेभिर्भुजैः? ॥६७६।। यः कौमारहरः स एव हि वरस्ता एव चैव क्षपास्ते चोन्मीलितमालतीसुरभयः प्रौढाः कदम्बानिलाः । सा चैवाऽस्मि तथाऽपि तत्र सुरतव्यापारलीलाविधौ । रेवारोधसि वेतसीतरुतले चेतः समुत्कण्ठते ॥६७७ ॥ शून्यं वासगृहं विलोक्य शयनादुत्थाय किश्चिच्छनैनिंद्राव्याजमुपागतस्य सुचिरं निर्वर्ण्यपत्युमुखम् । विश्रब्धं परिचुंब्य जातपुलकामालोक्य गण्डस्थली । लजानम्रमुखी प्रियेण हसता बाला चिरं चुम्बिता ॥६७८॥ यस्यालीयत शल्कसीम्नि जलधिः पृष्ठे जगन्मण्डलं, दंष्ट्रायां धरणी नखे दितिसुताधीशः पदे रोदसी। क्रोधे चत्रगणः शरे दशमुखः पाणौ प्रलम्बासुरो, ध्याने विश्वमसावधार्मिककुलं कस्मैचिदस्मै नमः ॥८९॥ वाली जोइउ नहु वलई होइडह धरई कसाय । मेन्ही उटारस सींदरो जहीं भावइ तहि जाइ ॥६८०॥