________________
(१०६)
कर्तुः स्वयं कारयितुः परेण , तुष्टेन भावेन तथाऽनुमन्तुः। साहाय्यकर्तुश्च शुभाशुभेषु, तुल्यं फलं तच्चविदो वदन्ति ।। हरिहरचउराणणचंद-सूर-खंदाइणो वि जे देवा । नारीण किंकरत्तं कुणंति धि द्धी विसयतण्हा ॥६६४ ॥ अणिमिसनयणा मणकजसाहणा पुप्फदामअभिलाणा । चउरंगुलेण भूमि न छिवंति सुरा जिणा विति ॥ ६६५ ॥ श्वेताम्बरधरा नारी श्वेतगन्धावलेपना। अवगृहेत यं स्वमे तस्य श्रीः सर्वतोमुखी ॥६६६ ॥ क्षमा खड्गं करे यस्य दुर्जनः किं करिष्यति । अतणे पतितो वह्निः स्वयमेवोपशाम्यति ॥६६७ ॥ ॐ नमो विश्वनाथाय विश्वस्थितिविधायिने । अर्हते व्यक्तरूपाय युगादीशाय योगिने ॥६६८ ॥ अर्हच्चक्री श्रियः स्वामी चामीकरसमप्रभः। . स्तुत्यः सत्कृत्य लाभाय श्रीशांतिः शुभतांतिकृत् ॥६६९॥ हेलांदोलितदैत्यारिजरासंधप्रतापहृत् । स्मरणीयं स्मरं कुर्वन् श्रीमान्नेमिः पुनातु वः ॥६७०॥ यस्थ दृष्टिसुधावृष्टिदानादहिरहीश्वरः । जातस्तापत्रयान्मुक्तः स श्रीपार्थो मुदेऽस्तु वः ॥६७१॥ सुरादि सुरनाथस्य संशयापनयाय यः। अकंपत्रिधा वीरः श्रीवीरः श्रेयसेऽस्तु वः ॥६७२ ॥ धर्मार्थकाममोक्षेषु वैलक्षण्यं कलासु च । करोति कीर्ति प्रीतिं च साधुकाव्यनिषेवणम् ॥६७३ ।।