________________
( १०५)
दुष्टस्य दण्डः स्वजनस्य पूजा, न्यायेन कोशस्य सदैव वृद्धिः । अपक्षपातो रिपुराष्ट्ररक्षा, पञ्चैव धर्माः कथिता नृपाणाम् ॥ ॥ ६५७ ॥
सीह सउण न चंदबल नवि जोइ धण रिद्धि | एकल्लो लक्खहिं भिडइ जिहां साहस तिहां सिद्धि ॥ ६५८ ॥ उपाध्यायाद्दशाचार्य, श्राचार्याणां शतं पिता । सहस्रं तु पितुर्माता गौरवेणातिरिच्यते
।। ६५९ ।।
बद्धा येन दिनाधिपप्रभृतयो मञ्चस्य पादे ग्रहाः । सर्वे येन कृताः कृताञ्जलिपुटाः शक्रादिदिक्पालकाः ॥ लङ्का यस्य पुरी समुद्रपरिखा सोऽप्यायुषः संक्षये । कष्टं विष्टपकण्टको दशमुखो दैवाद् गतः पञ्चताम् ॥६६० ॥ धन्यानां गिरिकन्दरे निवसतां ज्योतिः परं ध्यायतामानन्दाश्रुजलं पिबन्ति शकुना निःशङ्कमङ्केशयाः ॥ अस्माकं तु मनोरथैः परिचितप्रासादवापीतट — क्रीडाकानन केलि कौतुकजुषामायुः परिक्षीयते ।। ६६१ ।। पानीयस्य रसः शान्तः परान्नस्यादरो रसः । आनुकूल्यं रसः स्त्रीणां मित्रस्यावचनं रसः ॥ ६६२ ॥
एकं ध्याननिमीलितं मुकुलितं चतुर्द्वितीयं पुनः । पार्वत्या विपुले नितम्बफलके शृङ्गारभारालसम् ।। अन्यत्क्रूरविकृष्टचापमदनको धानलोद्दीपितम् ॥ शम्भोर्भिनरसं समाधिसमये नेत्रत्रयं पातु वः ॥ ६६३ ॥