________________
(१०४) । निद्रव्यो धनचिंतया धनपतिस्तद्रक्षणे चाकुलो । निःस्त्रीकस्तदुपायसंगतमतिः श्रीमानपत्येच्छया ॥ पाप्तस्तान्यखिलान्यपीह सततं रोगैः पराभूयते । जीवः कोऽपि कथंचनापिनियतं प्रायः सदा दुःखितः ।६५१॥ कस्तूरीकृष्णकायच्छविरतनुफणारत्नरोचिष्णुमाली। . विधुच्छाली गभीरानघवचनमहागर्जिविस्फूर्जितश्रीः॥ वर्षन् तत्वांबुपूरैभविजनहृदयोव्यां लसबोधिबीजाकुरं श्रीपार्श्वमेघः प्रकटयतु शिवानय॑सस्याय शश्वत् ।६५२। शत्रूणां तपना सदैव सुहृदामानन्दनश्चन्द्रवत् । पात्रापात्रनिरीक्षणे सुरगुरुर्दीनेषु कर्णोपमः॥ नीतौ रामनिभो युधिष्ठिरसमः सत्ये श्रिया श्रीपतिः । स्वीयान्येष्वपि पक्षपातसुभगः स्वामी यथार्थो भवेत् ॥६५३॥ वरं रेणुवरं भस्म नष्टश्रीन पुनर्नरः ।। मुक्त्वैनं दृश्यते पूजा क्वापि पर्वणि पूर्वयोः ॥ ६५४ ॥ यां चिन्तयामि सततं मयि सा विरक्ता । साप्यन्यमिच्छति जनं स जनोऽन्यसक्तः॥ . अस्मत्कृते च परितुष्यति काचिदन्या । धिक् तां च तं च मदनं च इमां च मां च ॥६५५ ॥ दयैव धर्मेषु गुणेषु दानं प्रायेण चानं प्रथितं प्रियेषु । मेघः पृथिव्यामुपकारकेषु तीर्थेषु माता तु मता नितान्तम्