________________
(१०३) जम्मंतीए सोगो, वतीए य वड्डए चिंता। परिणीयाए दंडो, जुबइपिया दुक्खिो निच्चम् ॥६४४॥ छटुं छद्रेण तवं कुणमाणो पढमगणहरो भयवं। अक्खीणमहाणसीओ सिरिगोयमसामियो जामो ॥६४५॥ कूटसाक्षी मृषाभाषी कृतघ्नो दीर्घरोपणः । मद्यपापर्द्धिकुन्नीरैन शुद्ध्यति कदाचन ॥६४६ ॥ चित्तमन्तर्गतं दुष्टं तीर्थस्नानैर्न शुद्ध्यति । शतशोऽपि जलैधौत सुराभाण्डमिवाऽशुचि ॥६४७ ॥ आयुवर्षशतं नृणां परिमितं रात्रौ तदर्धं गतम्, तस्यार्द्धस्य कदाचिदर्धमधिकं वृद्धत्ववाल्यत्वगम् । शेषं व्याधिवियोगशोकमदनासेवादिभिनीयते देहे वारितरगचंचलतरे धर्मः कुतः प्राणिनाम् ॥६४८॥ दुःखं स्त्रीकुक्षिमध्ये प्रथममिह भवेद्गर्भवासे नराणां, बालत्वे चापि दुःखं मललुलितवपुः स्त्रीपयःपानमिश्रम् ॥ तारुण्ये चापि दुःखं भवति विरहजं वृद्धभावोऽप्यसारः, संसारेरे मनुष्या वदत यदि सुखं स्वल्पमप्यस्ति किंचित् ६४९ दारिद्याकुलचेतसां सुतसुताभादिचिंताजुषां, नित्यं दुर्भरदेहपोषणकते रात्रिंदिवं खिद्यताम् । राजाज्ञा प्रतिपालनोद्यतधियां विश्राममुक्तात्मनां, सर्वोपद्रवशंकिनामघभृतां धिग् देहिनांजीवितम् !!॥६५॥