________________
(१००) वाक्यं नैव करोति बांधवजनः पत्नी न शुश्रूषते । धिकष्टं जरयाभिभूतपुरुषं पुत्रोऽप्यवज्ञायते ॥६२० ॥ दिव्यज्ञानयुता जगत्रयनुताः शौर्यान्विताः सत्कृताः। . देवेंद्रासुरवृंदवंद्यचरणाः सद्विक्रमाश्चक्रिणः॥ वैकुण्ठा बलशालिनो हलधरा ये. रावणाद्याः परे । ते कीनाशमुखं विशंत्यशरणा यद्वा न लंध्यो विधिः ॥६२१॥ ये पातालनिवासिनोऽसुरगणा ये स्वैरिणो व्यंतरा । ये ज्योतिष्कविमानवासिविबुधास्तारांतचंद्रादयः ।। सौधर्मादिसुरालये सुरगणा ये चापि वैमानिकास्ते सर्वेऽपि कृतांतवासमवशा गच्छंति किं शुच्यते? ।६२२॥ यावत्स्वस्थमिदं कलेवरगृहं यावच्च दूरे जरा। यावचेंद्रियशक्तिरप्रतिहता यावत्क्षयो नायुषः ।। आत्मश्रेयसि तावदेव विदुषा कार्यः प्रयत्नो महानादीप्ते भवने च कूपखननं प्रत्युद्यमः कशिः ॥६२३॥ जिणसासणस्स सारो, चउद्दसपुव्वाण जो समुद्धारो। जस्स मणे नमुक्कारो, संसारो तस्स किं कुणइ ॥ ६२४ ॥ नात्यन्तसरलैव्यं गत्वा पश्य वनस्पतिम् ।। सरलास्तत्र छिद्यते कुब्जास्तिष्ठति पादपाः ॥६२५ ॥ शीलं नाम नृणां कुलोन्नतिकरं शीलं परं भूषणं । शीलं ह्यप्रतिपाति वित्तमनघं शीलं सुगत्यावहं ।। शलिं दुर्गतिनाशनं सुविपुलं शीलं यशः पावनं । शीलं निर्वृतिहेत्वनंतसुखदं शीलं तु कल्पद्रुमः ॥६२६॥