________________
( ९९ ) एका भार्या त्रयः पुत्रा द्वे हले दश धेनवः। ग्रामे वासः पुरासन्ने स्वर्गादपि विशिष्यते ॥६१०॥ तरुणं सर्षपशाकं नवौदनं पिच्छिलानि च दधीनि । अल्पव्ययेन सुन्दरि! ग्राम्यजनो मिष्टमश्नाति ॥६११॥ अमन्त्रमक्षरं नास्ति, नास्ति मूलमनौषधम् । अनाथा पृथिवी नास्ति, आम्नायाः खलु दुर्लभा॥६१२॥ वेश्याका नृपतिश्चौरो नीरमार्जारदंष्ट्रिणः। जातवेदाः कलादश्च न विश्वास्या इमे क्वचित् ॥६१३॥ द्यूतं सर्वापदां धाम, द्यूतं दीव्यन्ति दुर्धियः । द्यूतेन कुलमालिन्यं, छूताय श्लाघतेऽधमः ॥६१४॥ खलः सक्रियमाणोऽपि ददाति कलहं सताम् । दुग्धधौतोऽपि किं याति वायसः कलहंसताम् ॥६१।। शास्त्रं बोधाय दानाय धनं धर्माय जीवितम् । वपुः परोपकाराय धारयन्ति मनीषिणः ॥६१६ ॥ अयं निजः परो वेति गणना लघुचेतसाम् । उदारचरितानां तु वसुधैव कुटुम्बकम् ॥६१७॥ वने रणे शत्रुजलागिमध्ये, महार्णवे पर्वतमस्तके वा। सुप्तं प्रमत्तं विषमस्थितं वा,रक्षन्ति पुण्यानि पुराकृतानि ६१८ संपदि यस्य न हों, विपदि विषादो रणे च धीरत्वम् । तं भुवनत्रयतिलकं, जनयति जननी सुतं विरलम् ॥६१९॥ गात्रं संकुचितं गतिविगलिता दंताश्च नाशं गता। दृष्टिभ्रंश्यति रूपमेव इमते वैरूप्यवर्णोदयम् ॥