SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ (९८) जणणी जम्मभूमी पच्छिमानिद्दा सुभासिमा गुट्ठी ___ मणइ8 माणुस्सं पंचवि दुक्खेण मुञ्चति ॥ ६०३ ॥ रथस्यैकं चक्रं भुजगयमिताः सप्त तुरगा, निरालंबो मार्गश्वरणविकलः सारथिरपि । रवियत्येवान्तं प्रतिदिनमपारस्य नभसः, क्रियासिद्धिः सत्त्वे वसति महतां नोपकरणे ॥६०४। विजेतव्या लङ्का चरणतरणीयो जलनिधिः, विपक्षः पौलस्त्यो रणभुवि सहायाश्च कपयः । तथाप्याजौ रामः सकलमवधीद् राक्षसकुलम् , क्रियासिद्धिः सच्चे वसति महतां नोपकरणे ॥६०५॥ अद्यापि नोज्झति हरः किल कालकूटं, कूर्मो बिभर्ति धरणीमपि पृष्ठकेन । अम्भोनिधिर्वहति दुर्वहवाडवाग्नि.. मङ्गीकृतं सुकृतिनः परिपालयन्ति ॥६०६ ॥ रिक्तपाणिर्न पश्येच्च राजानं देवतां गुरुम् । उपाध्यायं च वैद्यं च फलेन फलमादिशेत् ॥६०७॥ आस्तन्यपानाजननी पशूनामादारलाभाच नराधमानाम् । आगेहकम्मैव तु मध्यमानामाजीवितात् तीर्थमिवोत्तमानाम् ॥६०८॥ जातापत्या पतिं द्वेष्टि, कृतदारस्तु मातरम् । कृतार्थः स्वामिनं द्वेष्टि, जितरोगश्चिकित्सकम् ॥६०९॥'
SR No.002455
Book TitleSubhashit Shloak Tatha Stotradi Sangraha
Original Sutra AuthorN/A
AuthorBhavvijay
PublisherBhupatrai Jadavji Shah
Publication Year1935
Total Pages400
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy