________________
भोज्यं निर्लवणं सुतो गतगुणश्चारित्रहीनो यतिनिद्रव्यं भुवनं न राजति तथा धर्म विना मानवः ॥५८८॥ अमेध्यपूर्णे कृमिजालसंकुले स्वभावदुर्गधअशौचनिन्हवे कलेवरे मूत्रपुरीषभाजने लपंति मूढा विरमन्ति पंडिताः ।५८९। स्पृष्ट्वा शत्रुजयं तीर्थ, नत्वा रैवतकाचलं । स्नात्वा गजपदे कुण्डे, पुनर्जन्म न विद्यते ॥ ५९० ॥ भक्ति तीर्थकरे गुरौ जिनमते संघे च हिंसाऽनृतस्तेयाब्रह्मपरिग्रहव्युपरमं क्रोधाधरीणां जयं । सौजन्यं गुणिसंगमिंद्रियदमं दानं तपो भावनां, वैराग्यं च कुरुष्व निवृतिपदे यद्यस्ति गंतुं मनः ॥ ५९१ ॥
श्री तीर्थपान्थरजसा विरजीभवन्ति, तीर्थेषु बंभ्रमणतो न भवे भ्रमन्ति। । तीर्थव्ययादिह नराः स्थिरसंपदः स्युः, पृज्या भवंति जगदीशमथार्चयंतः ॥ ५९२ ॥
छटेणं भत्तेणं अपाणएणं तु सत्तजत्ताय . जो कुणइ सिचुंजये सो तइए भवे लहइ सिद्धिं ॥५९३।। यः संसारनिरासलालसमतिर्मुक्यर्थमुत्तिष्ठते, यं तीर्थ कथयति पावनतया येनास्ति नान्यः समः । यस्मै तीर्थपतिनमस्यति सतां यस्माच्छुभं जायते, स्फूर्तिर्यस्य परा वसंति च गुणा यस्मिन् स संघोऽयंताम् ५९४ लक्ष्मीस्तं स्वयमभ्युपैति रभसा कीर्तिस्तमालिंगति, प्रीतिस्तं भजते मतिः प्रयतते तं लब्धुमुत्कण्ठया ।