________________
[ १२ ] कर्तव्ये तव तिरोहितं न भवति, द्विवारं तदुक्तं सत् विधि - सूते । किं तत् ? सूत्रं स्मृतिमानय ॥२७॥
[ शिखरिणी ] अपाये पापानां नयनविषयीभावमयतेऽवधिः सिद्धीनां यो निरवधिनिधीनां वितरणम् । अपादानं कर्ता भवभवभयानामतितमा, नमस्तस्मै नित्यं जिनवृषभवीराय सततम् ॥२८॥
(पञ्जिका ) पापानां विगमने सति यो लोचनगोचरीभवति, सिद्धीनां यो मर्यादा, अनन्तनिधीनां यो दायकः, संसारसम्भवसाध्वसानामतिशयेनापहर्ता यः, तस्मै सन्ततं जिनोत्तममहावीरस्वामिने सर्वदा नमोऽस्तु । सूक्तेऽत्राचरमपादत्रितयादिमपदानां संयोजनात सूत्रं हैमीयं प्रादुभवति ॥२८॥.
[ शार्दूलविक्रीडितम् ] केनास्मिन् किल कारकप्रकरणे, व्याप्ता द्वितीया भवेत्, तत्स्त्रार्थमयं नतोन्नतपथो, नव्योऽविसर्गः कृतः । इत्युक्ताद्यदि नावगच्छसि तदा, चिन्ता समुत्सार्यतां, भूयात्ते सकलेप्सितार्थतरणिः, कर्तव्यचिन्तामणिः ॥२९॥
(पञ्जिका ) अस्मिन् व्याकरणे . हैमे कारकप्रकरणे व्यापकद्वितीयाविभक्तिः केन सूत्रेण स्यात् खलु इत्ययं प्रश्नः । तदुत्तरकृते अयं पुरः प्रदयमानः पन्था वर्तते, तत्पथेन तत्सूत्रमानेयम्, स च मार्ग:-'कर्तव्यचिन्तामणिः' इत्येतद्रूपो नतोन्नतः, नव्यः, अविसर्गो वर्तते । इत्येतावद कथनेऽपि यदि तव बोधो न भवति तदा चिन्ता दूरीकरणीया । यतस्तवायं कर्तव्य